श्रवणम्

10.64.1
क॒था दे॒वानां᳚ कत॒मस्य॒ याम᳚नि सु॒मन्तु॒ नाम᳚ शृण्व॒तां म᳚नामहे ।
को मृ᳚ळाति कत॒मो नो॒ मय᳚स्करत्कत॒म ऊ॒ती अ॒भ्या व᳚वर्तति ॥
▶ पदपाठः (Word-by-word)
क॒था । दे॒वाना᳚म् । क॒त॒मस्य᳚ । याम᳚नि । सु॒॑मन्तु᳚ । नाम᳚ । शृ॒ण्व॒ताम् । म॒ना॒म॒हे॒ ।
कः । मृ॒ळा॒ति॒ । क॒त॒मः । नः॒ । मयः᳚ । क॒र॒त् । क॒त॒मः । ऊ॒ती । अ॒भि । आ । व॒व॒र्त॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कथेति सप्तदशर्चं चतुर्थं सूक्तं प्लातस्य गयस्यार्षम् वैश्वदेवम् । याम् मे धियमित्येषा द्वादशी षोडशीसप्तदश्यौ च त्रिष्टुभः शेषा जगत्यः। तथा चानुक्रान्तम्। कथा यां मे त्रिष्टुबिति। गतो विनियोगः॥

ऋषिर्बहुधात्मानं वितर्कयति। यामनि। यान्ति गच्छन्त्यत्रेति यामा यज्ञः। तस्मिञ्शृण्वतामस्माभिरुक्तानि स्तोत्राणि देवानां मध्ये कतमस्य देवस्य सुमन्तु सुष्थु मननीयं स्तोतव्यं नाम कथा कथं मनामहे। उच्चारयामः। अस्मान्को वा मृळाति। मृळतिरुपदयाकर्मेति यास्कः। नि. १०-१५। कृपां करोति। कतमो वा सोऽस्माकं मयः सुखं करत्। करोति। कतमो वोती। चतुर्थ्याः पूर्वसवर्णदीर्घः। ऊत्या अस्माकं रक्षणायाभ्या ववर्तति। अभ्यागच्छतीत्यर्थः॥१॥