श्रवणम्

10.23.5
यो वा॒चा विवा᳚चो मृ॒ध्रवा᳚चः पु॒रू स॒हस्राशि᳚वा ज॒घान᳚ ।
तत्त॒दिद᳚स्य॒ पौंस्यं᳚ गृणीमसि पि॒तेव॒ यस्तवि᳚षीं वावृ॒धे शवः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । वा॒चा । वि॑वा᳚चः । मृ॒ध्र॑वा᳚चः । पु॒रु । स॒हस्रा᳚ । अशि᳚वा । ज॒घान᳚ ।
तत्॑त᳚त् । इत् । अ॒स्य॒ । पौंस्य᳚म् । गृ॒णी॒म॒सि॒ । पि॒ता॑इ᳚व । यः । तवि᳚षीम् । व॒वृ॒धे । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः वाचा वाङ्मात्रेणैव विवाचः विविधवाचः स्वशत्रून् मृध्रवाचः हिंसितवाचः कृत्वेतिशेषः पुरु पुरूणि बहूनि अशिवा अशिवान्यसुखकराणि दुःखकराणीत्यर्थः सहस्रा शत्रूणां सहस्राणि जघान हन्ति अपिच यश्चेन्द्रः पितेव यथापिता पुत्रस्य तविषीं बलं अन्नप्रदानैर्ववृधे वर्धयति तथा वृष्टिद्वारेण सर्वस्य जगतः शवोबलं ववृधे वर्धयति । अस्ये न्द्रस्य तत्तदित् तत्तदेव पौंस्यं बलं गृणीमसि वयं स्तुमः । इन्द्रोयेन येन बलेन शत्रून् हन्ति तस्य तत्तद्बलं वयं स्तमइत्यर्थः ॥ ५ ॥