श्रवणम्

10.23.2
हरी॒ न्व᳚स्य॒ या वने᳚ वि॒दे वस्विन्द्रो᳚ म॒घैर्म॒घवा᳚ वृत्र॒हा भु᳚वत् ।
ऋ॒भुर्वाज᳚ ऋभु॒क्षाः प᳚त्यते॒ शवो॑व᳚ क्ष्णौमि॒ दास᳚स्य॒ नाम᳚ चित् ॥
▶ पदपाठः (Word-by-word)
हरी॒ इति᳚ । नु । अ॒स्य॒ । या । वने᳚ । वि॒दे । वसु᳚ । इन्द्रः᳚ । म॒घैः । म॒घ॑वा᳚ । वृ॒त्र॒॑हा । भु॒व॒त् ।
ऋ॒भुः । वाजः᳚ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः᳚ । अव᳚ । क्ष्णौ॒मि॒ । दास᳚स्य । नाम᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य संबन्धिनौ या यौ हरी अश्वौ वने वन्यन्ते संभज्यन्तेस्मिन् देवाइति वनं यज्ञः अरण्यं वा तस्मिन् वसु ऋजीकलक्षणं धनं यवसलक्षणं वा नु क्षिप्रं विदे विन्देते लभेते । यद्वा यौ हरी अस्येन्द्रस्य वने संभजनार्थं वसुवसुनोलाभाय क्षिप्रं भवतइतिशेषः ताभ्यां हरिभ्यां मघैः धनैः मघवाधनवानिन्द्रः वृत्रहा वृत्राख्यासुरस्य मेघस्य वा हन्ता भुवत् भवति । अपिच ऋभुः दीप्तः वाजोबलवान् ऋभुक्षाः महानिन्द्रः शवः शवसोबल- स्य धनस्य वा पत्यते ईष्टे । यद्वा शत्रूणां बलं प्रतिपत्यते पद्यतेगच्छति अहमपि तस्य प्रसादात् दासस्य उपक्षपयितव्यस्य शत्रोः नामचित् नम्यतेऽनेनेतिनाम शिरः तदपि अव- क्ष्णौमि अवहन्मि किमुतान्यदंगं अथवा नामधेयमपि नाशयामि किमुत शत्रुं ॥ २ ॥