आ नो᳚ य॒ज्ञं भार᳚ती॒ तूय᳚मे॒त्विळा᳚ मनु॒ष्वदि॒ह चे॒तय᳚न्ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर᳚स्वती॒ स्वप᳚सः सदन्तु ॥
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर᳚स्वती॒ स्वप᳚सः सदन्तु ॥
पदपाठः (Word-by-word)
आ । नः॒ । य॒ज्ञम् । भार᳚ती । तूय᳚म् । ए॒तु॒ । इळा᳚ । म॒नु॒ष्वत् । इ॒ह । चे॒तय᳚न्ती ।
ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स्यो॒नम् । सर᳚स्वती । सु॒॑अप᳚सः । स॒द॒न्तु॒ ॥
ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स्यो॒नम् । सर᳚स्वती । सु॒॑अप᳚सः । स॒द॒न्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
भारती। भरत आदित्यः। अस्य स्वभुता दीप्तिः। तस्येदमित्यर्थः उत्सादित्वादञ्। पा. ४-१-८६। टिड्ढाणञिति ङीप्। नोऽस्मदीयं यज्ञं तूयं क्शिप्रमेतु। आगच्छतु। तथा मनुष्वन्मनुष्यो यथेदं मया कर्तव्यमिति जानाति तद्वच्चेतयन्ती जानतीळा देवी चेहास्मिन्कर्मण्यागच्छतु। तथा सरस्वती च। स्वपसः सुकर्माणः। अप इति कर्मनाम। आप्नोतेरसुन्यापः कर्माख्यायां ह्रस्वः। बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम्। एतास्तिस्रो देवीर्देव्यः स्योनं सुखकरमिदं बर्हिरिमं यज्ञमा सदन्तु। आसीदन्तु। प्राप्नुवन्तु। सदेर्लोटि सीदादेशाभावश्छान्दसः॥८॥