स॒द्यो जा॒तो व्य᳚मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः ।
अ॒स्य होतु᳚ः प्र॒दिश्यृ॒तस्य᳚ वा॒चि स्वाहा᳚कृतं ह॒विर᳚दन्तु दे॒वाः ॥
अ॒स्य होतु᳚ः प्र॒दिश्यृ॒तस्य᳚ वा॒चि स्वाहा᳚कृतं ह॒विर᳚दन्तु दे॒वाः ॥
पदपाठः (Word-by-word)
स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना᳚म् । अ॒भ॒व॒त् । पु॒रः॒॑गाः ।
अ॒स्य । होतुः᳚ । प्र॒॑दिशि᳚ । ऋ॒तस्य᳚ । वा॒चि । स्वाहा᳚॑कृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥
अ॒स्य । होतुः᳚ । प्र॒॑दिशि᳚ । ऋ॒तस्य᳚ । वा॒चि । स्वाहा᳚॑कृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः सद्यस्तदानीमेव जातो जायमान एव यज्ञं व्यमिमित। विशेषेण निर्मिमीते। उत्पादयति। माङ् माने शब्दे च चौहोत्यादिकः। अत एवायमग्निर्देवानां पुरोगाः प्रथमगामी मुख्योऽभवत्। गमेर्विट् प्रत्यय आत्वे च कृते रूपम्। ततः प्रदिशि प्रकृष्टायां दिशि प्राच्यामृतस्याहवनीयात्मनागतस्यास्य होतुर्होमनिश्पादकस्याग्नेर्वाचि। अत्र वागाश्रय अस्यं लक्श्यते। वाच्यास्ये स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं हविः सर्वे देवा अदन्तु। भक्षयन्तु। इदं सूक्तं यास्केन सम्यगभ्यधायि। नि. ८.५-२१। तदत्रानुसन्धीयताम्॥११॥