श्रवणम्

10.110.10
उ॒पाव᳚सृज॒ त्मन्या᳚ सम॒ञ्जन्दे॒वानां॒ पाथ᳚ ऋतु॒था ह॒वींषि᳚ ।
वन॒स्पति᳚ः शमि॒ता दे॒वो अ॒ग्निः स्वद᳚न्तु ह॒व्यं मधु᳚ना घृ॒तेन᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑अव᳚सृज । त्मन्या᳚ । स॒म्॑अ॒ञ्जन् । दे॒वाना᳚म् । पाथः᳚ । ऋ॒तु॒॑था । ह॒वींषि᳚ ।
वन॒स्पतिः᳚ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद᳚न्तु । ह॒व्यम् । मधु᳚ना । घृ॒तेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वनस्पते यूप त्मन्या। आत्मशब्दस्य तृतीयैकवचने यादेशः। मन्त्रे ष्वाङ्यादेरात्मन इत्याकारलोपः। आत्मनैवर्तुथर्तावृतौ प्राप्ते काले देवानामर्थाय पाथः पशुलक्षणमन्नमन्नानि च हवींषि समञ्जन् सम्यग्व्यक्तीकुर्वन्नुपावसृज। उपागम्य प्रयच्छ। गतिर्गतौ। पा. ८-१-७०। इति गतेर्निघातः। किञ्च वनस्पतिर्योऽयं यूपः शमितैतन्नामको देवः यद्वा शामित्रोऽग्निर्देवो दीप्यमान आहवनीयाख्योऽग्निश्चैते त्रयो मधुना मधुरेण घृतेन। यद्वा। मधुनोदकेन प्रोक्षणोपनयनादिगतेन घृतेन च। हव्यं हवनयोग्यं स्वदन्तु। स्वादं कुर्वन्तु॥१०॥