श्रवणम्

10.110.2
तनू᳚नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा᳚ सम॒ञ्जन्त्स्व᳚दया सुजिह्व ।
मन्मा᳚नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे᳚व॒त्रा च᳚ कृणुह्यध्व॒रं नः᳚ ॥
▶ पदपाठः (Word-by-word)
तनू᳚॑नपात् । प॒थः । ऋ॒तस्य᳚ । याना᳚न् । मध्वा᳚ । स॒म्॑अ॒ञ्जन् । स्व॒द॒य॒ । सु॒॑जि॒ह्व॒ ।
मन्मा᳚नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒॑त्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तनूनपात्। नपादित्यनन्तरापत्यनामधेयम्। गौरत्र तनूरुच्यते तता अस्यं भोगाः क्षीरादय इति। तस्याः पयो जायते पयस आज्यं तस्मादग्निः। यद्वा। अन्तरिक्षे तता आपस्तन्वः ताभ्यः ओशध्यादयः तेभ्योऽग्निरिति। एवरूप हे सुजिह्व शोभनज्वाल यद्वा। जिह्वेति वाङ्नाम। शोभनवागग्ने ऋतस्य यज्ञस्य यानान्पलप्राप्तिहेतून्पथो मार्गान्हविराख्यान्मध्वा मदकरेण रसेन यद्वा वाग्जनितेन रसेन समञ्जन् सम्यग्दीपयन् स्वदय। स्वादयस्व। स्वादूकुरु। स्वद आस्वादने। णिच्युपधावृद्ध्यभावश्छान्धसः। किञ्च मनामि। मन्यतेरर्चतिकर्मणः। मननीयान्यस्मदभिप्रेतानि स्तोत्राणि धीभिः प्रज्ञाभिः कर्मभिर्वोतापि च यज्ञं यजनीयं हविश्च ऋन्धन् समृद्धानि कुर्वन् नोऽस्मदीयमध्वरम् यज्ञं देवता देवेषु क्रुणुहि। कुरु। देवशब्दाद्देवमनुष्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः॥२॥