श्रवणम्

10.110.7
दैव्या॒ होता᳚रा प्रथ॒मा सु॒वाचा॒ मिमा᳚ना य॒ज्ञं मनु᳚षो॒ यज᳚ध्यै ।
प्र॒चो॒दय᳚न्ता वि॒दथे᳚षु का॒रू प्रा॒चीनं॒ ज्योति᳚ः प्र॒दिशा᳚ दि॒शन्ता᳚ ॥
▶ पदपाठः (Word-by-word)
दैव्या᳚ । होता᳚रा । प्र॒थ॒मा । सु॒॑वाचा᳚ । मिमा᳚ना । य॒ज्ञम् । मनु᳚षः । यज᳚ध्यै ।
प्र॒॑चो॒दय᳚न्ता । वि॒दथे᳚षु । का॒रू इति᳚ । प्रा॒चीन᳚म् । ज्योतिः᳚ । प्र॒॑दिशा᳚ । दि॒शन्ता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव्या। देवाद्यञञाविति यञ्प्रत्ययः। देवसम्बन्धिनौ होतारौ होमनिष्पादकौ होतृनामकावग्न्यादित्यावस्मिन्यज्ञ आसीदताम्। कीदृशौ। प्रथमा मनुष्यहोतुः पूर्वभाविनौ सुवाचा शोभनस्तोत्रौ मनुशो मनुष्यस्य सर्वस्य यष्टुर्यजध्यै यागनिव्रुत्तये। यजेस्तुमर्थे शध्यैन्प्रत्ययः। यज्ञं मिमाना निर्मिमानावुत्पादयन्तौ। विदथेषु। विदन्त्यत्रर्त्विजः स्वस्वकर्माणीति विदथा यज्ञाः। तेष्वृत्विजो यजमानांश्च प्रचोदयन्ता प्रेरयन्तौ कारू स्तुतीनां कर्तारौ प्राचीनं पूर्वस्यां दिशि यष्टव्यत्वेन स्थितमाहवनीयाख्यम् ज्योतिः प्रदिशा प्रकृष्टेनोपदिष्टमार्गेण यद्वा प्रदिश्यमानेन मन्त्रेण दिशन्ता निर्वहन्तौ॥७॥