द्यावा᳚ नो अ॒द्य पृ᳚थि॒वी अना᳚गसो म॒ही त्रा᳚येतां सुवि॒ताय᳚ मा॒तरा᳚ ।
उ॒षा उ॒च्छन्त्यप᳚ बाधताम॒घं स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
उ॒षा उ॒च्छन्त्यप᳚ बाधताम॒घं स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
पदपाठः (Word-by-word)
द्यावा᳚ । नः॒ । अ॒द्य । पृ॒थि॒वी इति᳚ । अना᳚गसः । म॒ही इति᳚ । त्रा॒ये॒ता॒म् । सु॒वि॒ताय᳚ । मा॒तरा᳚ ।
उ॒षाः । उ॒च्छन्ती᳚ । अप᳚ । बा॒ध॒ता॒म् । अ॒घम् । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
उ॒षाः । उ॒च्छन्ती᳚ । अप᳚ । बा॒ध॒ता॒म् । अ॒घम् । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
मही महत्यौ मातरा मातरौ सर्वस्य मातृभूते द्यावापृथिवी द्यावापृथिव्यौ अद्यास्मि- न्नहनि अनागसोपराधरहितान् नोस्मान् सुविताय सुखाय त्रायेतां रक्षताम् । किंच उच्छंती तमांसि विवासयंती उषाः अस्माकमघं पापमपबाधतां अपनयतु अपिच समिधानं सम्यक् दीप्यमानमग्निं स्वस्ति सर्वप्रकाराविनाशमीमहे वयं याचामहे ॥ ३ ॥