श्रवणम्

10.35.11
त आ᳚दित्या॒ आ ग᳚ता स॒र्वता᳚तये वृ॒धे नो᳚ य॒ज्ञम᳚वता सजोषसः ।
बृह॒स्पतिं᳚ पू॒षण᳚म॒श्विना॒ भगं᳚ स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता᳚तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒॑जो॒ष॒सः॒ ।
बृह॒स्पति᳚म् । पू॒षण᳚म् । अ॒श्विना᳚ । भग᳚म् । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः येस्माभिराहूताः ते यूयं सर्वतातये यज्ञार्थमागतागच्छत । आगत्य च हे सजोषसः संगतायूयं नोस्माकं वृधे वर्धनाय यज्ञं प्रति अवत रक्षत । वयं च बृहस्पतिं पूषणं चाश्विनाश्विनौच भगं भगाख्यं देवं च समिधानं सम्यक् दीप्तमग्निं च स्वस्ति सर्वप्रकाराविनाशमीमहे याचामहे ॥ ११ ॥