श्रवणम्

10.35.13
विश्वे᳚ अ॒द्य म॒रुतो॒ विश्व᳚ ऊ॒ती विश्वे᳚ भवन्त्व॒ग्नय॒ः समि᳚द्धाः ।
विश्वे᳚ नो दे॒वा अव॒सा ग᳚मन्तु॒ विश्व᳚मस्तु॒ द्रवि᳚णं॒ वाजो᳚ अ॒स्मे ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । अ॒द्य । म॒रुतः᳚ । विश्वे᳚ । ऊ॒ती । विश्वे᳚ । भ॒व॒न्तु॒ । अ॒ग्नयः᳚ । सम्॑इ᳚द्धाः ।
विश्वे᳚ । नः॒ । दे॒वाः । अव᳚सा । आ । ग॒म॒न्तु॒ । विश्व᳚म् । अ॒स्तु॒ । द्रवि᳚णम् । वाजः᳚ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यस्मिन्नहनि प्रधानयागदिवसे विश्वे सर्वे मरुतोविश्वे सर्वे मरुद्गणसहचरितारुद्राद- योदेवाश्चोती ऊत्यै रक्षणाय भवंतु अपिच विश्वे सर्वे अग्नयः आहवनीयादयः समिद्धाः संदीप्ताः भवंतु । अपिच विश्वे सर्वे इंद्रादयोदेवानोस्माकमवसा रक्षणेनागमंतु आगच्छंतु किंचास्मे अस्मासु विश्वं सर्वं द्रविणं धनं वाजोन्नं चास्तु भवतु ॥ १३ ॥