श्रवणम्

10.89.13
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष᳚धी॒रनु॒ पर्व᳚तासः ।
अन्विन्द्रं॒ रोद᳚सी वावशा॒ने अन्वापो᳚ अजिहत॒ जाय᳚मानम् ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । अह᳚ । मासाः᳚ । अनु᳚ । इत् । वना᳚नि । अनु᳚ । ओष᳚धीः । अनु᳚ । पर्व᳚तासः ।
अनु᳚ । इन्द्र᳚म् । रोद᳚सी॒ इति᳚ । वा॒व॒शा॒ने इति᳚ । अनु᳚ । आपः᳚ । अ॒जि॒ह॒त॒ । जाय᳚मानम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जायमानं प्रादुर्भवन्तमिन्द्रं मासाश्चैत्रादयोऽन्वजिहत। अनुगच्छन्ति। अहेति पूरणः। वनान्यरण्यान्यपीन्द्रमन्वजिहत। इदिति पूरणः। ओषधीरोषध्योऽपीन्द्रमनुगच्छान्ति। पर्वतासः पर्वता अपीन्द्रमनुगच्छन्ति। वावशाने कामयमाने रोदसी द्यावापृथिव्यावपीन्द्रमनुगच्छतः। आप उदकान्यपीन्द्रमनुगच्छन्ति। मासाद्यधिष्ठातृदेवताः प्रादुर्भवन्तमिन्द्रमनुगच्छन्तीत्यर्थः॥१३॥