श्रवणम्

10.89.15 समानपद
श॒त्रू॒यन्तो᳚ अ॒भि ये न᳚स्तत॒स्रे महि॒ व्राध᳚न्त ओग॒णास᳚ इन्द्र ।
अ॒न्धेना॒मित्रा॒स्तम᳚सा सचन्तां सुज्यो॒तिषो᳚ अ॒क्तव॒स्ता{4} अ॒भि ष्यु᳚ः ॥
▶ पदपाठः (Word-by-word)
श॒त्रु॒॑यन्तः᳚ । अ॒भि । ये । नः॒ । त॒त॒स्रे । महि᳚ । व्राध᳚न्तः । ओ॒ग॒णासः᳚ । इ॒न्द्र॒ ।
अ॒न्धेन᳚ । अ॒मित्राः᳚ । तम᳚सा । स॒च॒न्ता॒म् । सु॒॑ज्यो॒तिषः᳚ । अ॒क्तवः᳚ । तान् । अ॒भि । स्यु॒रिति᳚ स्युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र शत्रूयन्तो मह्यत्यन्तं व्राधन्तोऽस्मान्बाधमानाः ओगणासः सङ्घीभूता ये शत्रवो नोऽस्मानभि ततस्ते निक्शिपन्ति तेऽमित्राः शत्रवोऽन्धेन तमसा महातान्धकारेण सचन्ताम्। सङ्गच्छन्ताम्। किञ्च तानमित्रान् सुज्योतिषो दिवसा अक्तवो रात्रयश्चाभि ष्युः। अभिभवन्तु॥१५॥