ज॒घान᳚ वृ॒त्रं स्वधि᳚ति॒र्वने᳚व रु॒रोज॒ पुरो॒ अर᳚द॒न्न सिन्धू᳚न् ।
बि॒भेद᳚ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो᳚ अकृणुत स्व॒युग्भि᳚ः ॥
बि॒भेद᳚ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो᳚ अकृणुत स्व॒युग्भि᳚ः ॥
पदपाठः (Word-by-word)
ज॒घान᳚ । वृ॒त्रम् । स्व॑धि᳚तिः । वना᳚॑इव । रु॒रोज᳚ । पुरः᳚ । अर᳚दत् । न । सिन्धू᳚न् ।
बि॒भेद᳚ । गि॒रिम् । नव᳚म् । इत् । न । कु॒म्भम् । आ । गाः । इन्द्रः᳚ । अ॒कृ॒णु॒त॒ । स्व॒युक्॑भिः᳚ ॥
बि॒भेद᳚ । गि॒रिम् । नव᳚म् । इत् । न । कु॒म्भम् । आ । गाः । इन्द्रः᳚ । अ॒कृ॒णु॒त॒ । स्व॒युक्॑भिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रो वृत्रमसुरं जघान। हतवान्। अपि च स्वधितिः परशुर्वनेव वनानीव पुरः शत्रुनगरी रुरोज। रुजति। भिनत्ति। शत्रुनगरीर्भित्त्वा च सिन्धून्नदीररदत्। वृष्ट्युदकेनालिखत्। नेति सप्म्रत्यर्थे। किञ्च गिरिं मेघं नवं न नवमिव कुम्भं कलशं बिभेदेत्। भिनत्त्येव। किञ्चेन्द्रः स्वयुग्भिः स्वयं युज्यमानैर्मरुद्भिर्गा उदकान्याकृणुत। अस्मदभिमुखं करोति॥७॥