श्रवणम्

10.89.8
त्वं ह॒ त्यदृ᳚ण॒या इ᳚न्द्र॒ धीरो॒॑सिर्न पर्व᳚ वृजि॒ना शृ᳚णासि ।
प्र ये मि॒त्रस्य॒ वरु᳚णस्य॒ धाम॒ युजं॒ न जना᳚ मि॒नन्ति᳚ मि॒त्रम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । ऋ॒ण॒॑याः । इ॒न्द्र॒ । धीरः᳚ । अ॒सिः । न । पर्व᳚ । वृ॒जि॒ना । शृ॒णा॒सि॒ ।
प्र । ये । मि॒त्रस्य᳚ । वरु᳚णस्य । धाम᳚ । युज᳚म् । न । जनाः᳚ । मि॒नन्ति᳚ । मि॒त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्र धीरः प्राज्ञस्त्वं ह त्वं खलु त्यत्तदृणयाः स्तोतृविषयाणामृणानां प्रापयितासि। किञ्च त्वमसिर्न शस्त्रमिव पर्व पशूनां पर्वाणि वृजिना वृजिनानि स्तोतॄणामुपद्रवाणि शृणासि। हंसि। किञ्च मित्रस्य वरुणस्य मित्रावरुणयोर्धाम धारकं कर्म युजं न युक्तमिव मित्रं येऽज्ञा नृशंसा जनाः प्र मिनन्ति प्रकर्षॆण हिंसन्ति तानपि शृणासीत्यर्थः॥८॥