ए॒वा ते᳚ व॒यमि᳚न्द्र भुञ्जती॒नां वि॒द्याम᳚ सुमती॒नां नवा᳚नाम् ।
वि॒द्याम॒ वस्तो॒रव᳚सा गृ॒णन्तो᳚ वि॒श्वामि᳚त्रा उ॒त त᳚ इन्द्र नू॒नम् ॥
वि॒द्याम॒ वस्तो॒रव᳚सा गृ॒णन्तो᳚ वि॒श्वामि᳚त्रा उ॒त त᳚ इन्द्र नू॒नम् ॥
पदपाठः (Word-by-word)
ए॒व । ते॒ । व॒यम् । इ॒न्द्र॒ । भु॒ञ्ज॒ती॒नाम् । वि॒द्याम᳚ । सु॒॑म॒ती॒नाम् । नवा᳚नाम् ।
वि॒द्याम᳚ । वस्तोः᳚ । अव᳚सा । गृ॒णन्तः᳚ । वि॒श्वामि᳚त्राः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥
वि॒द्याम᳚ । वस्तोः᳚ । अव᳚सा । गृ॒णन्तः᳚ । वि॒श्वामि᳚त्राः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते तवैव भुञ्जतीनां रक्षन्तीः प्रिया वयं विश्वामित्रपुत्रा रेनवो विद्याम। लभेमहि। उतापि च हे इन्द्र ते तव नवानां नूतनाः सुमतीनामनुग्रहबुद्धीर्वस्तोरहन्यवसा रक्षणार्थं गृणन्तो नूनं त्वां स्तुवन्त एव विश्वामित्रा विश्वामित्रपुत्रा वयं विद्याम। लभेम॥१७॥