इन्द्रो᳚ दि॒व इन्द्र᳚ ईशे पृथि॒व्या इन्द्रो᳚ अ॒पामिन्द्र॒ इत्पर्व᳚तानाम् ।
इन्द्रो᳚ वृ॒धामिन्द्र॒ इन्मेधि᳚राणा॒मिन्द्र॒ः क्षेमे॒ योगे॒ हव्य॒ इन्द्र᳚ः ॥
इन्द्रो᳚ वृ॒धामिन्द्र॒ इन्मेधि᳚राणा॒मिन्द्र॒ः क्षेमे॒ योगे॒ हव्य॒ इन्द्र᳚ः ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । दि॒वः । इन्द्रः᳚ । ई॒शे॒ । पृ॒थि॒व्याः । इन्द्रः᳚ । अ॒पाम् । इन्द्रः᳚ । इत् । पर्व᳚तानाम् ।
इन्द्रः᳚ । वृ॒धाम् । इन्द्रः᳚ । इत् । मेधि᳚राणाम् । इन्द्रः᳚ । क्षेमे᳚ । योगे᳚ । हव्यः᳚ । इन्द्रः᳚ ॥
इन्द्रः᳚ । वृ॒धाम् । इन्द्रः᳚ । इत् । मेधि᳚राणाम् । इन्द्रः᳚ । क्षेमे᳚ । योगे᳚ । हव्यः᳚ । इन्द्रः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
दिवो द्युलोकस्येन्द्र ईशे। ईष्टे। पृथिव्या भूमेरपीन्द्र ईशे। ईश्वरो भवति। अपामुदकानामपीन्द्र ईश्वरो भवति। पर्वतानां मेघानामपीन्द्र ईश्वरो भवति। वृधां वृद्धानामपीन्द्र एवेश्वरः। मेधिराणां प्राज्ञानमपीन्द्र एवेश्वरो भवति। किञ्चेन्द्रः क्षेमे लब्धस्य धनस्य परिपालने हव्यो ह्वातव्यो योगेऽलब्धस्य धनस्य लाभेऽपीन्द्र एव ह्वातव्यो भवति॥१०॥