न यस्य॒ द्यावा᳚पृथि॒वी न धन्व॒ नान्तरि᳚क्षं॒ नाद्र᳚य॒ः सोमो᳚ अक्षाः ।
यद᳚स्य म॒न्युर᳚धिनी॒यमा᳚नः शृ॒णाति᳚ वी॒ळु रु॒जति᳚ स्थि॒राणि᳚ ॥
यद᳚स्य म॒न्युर᳚धिनी॒यमा᳚नः शृ॒णाति᳚ वी॒ळु रु॒जति᳚ स्थि॒राणि᳚ ॥
पदपाठः (Word-by-word)
न । यस्य᳚ । द्यावा᳚पृथि॒वी इति᳚ । न । धन्व᳚ । न । अ॒न्तरि᳚क्षम् । न । अद्र᳚यः । सोमः᳚ । अ॒क्षा॒रिति᳚ ।
यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒॑नी॒यमा᳚नः । शृ॒णाति᳚ । वी॒ळु । रु॒जति᳚ । स्थि॒राणि᳚ ॥
यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒॑नी॒यमा᳚नः । शृ॒णाति᳚ । वी॒ळु । रु॒जति᳚ । स्थि॒राणि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
द्यावापृथिवी द्यावापृथिव्यौ यस्येन्द्रस्य प्रतिमानभूते न भवतः। न धन्व। उदकमपि प्रतिमानभूतं न भवति। नान्तरिक्षम्। अन्तरिक्षमपि प्रतिमानभूतं न भवति। नाद्रयः। पर्वताश्च प्रतिमानभूता न भवन्ति। तस्येन्द्रस्य सोमोऽक्षाः। क्शरति। किञ्च यद्यदास्येन्द्रस्य मन्युः क्रोधोऽधिनीयमानः शत्रूणामुपरि प्राप्यमाणो भवति तदानीमयमिन्द्रो वीळु दृढं शृणाति। हिनस्ति। स्थिराणि रुजति। भिनत्ति च॥६॥