पु॒रूणि॒ हि त्वा॒ सव᳚ना॒ जना᳚नां॒ ब्रह्मा᳚णि॒ मन्द᳚न्गृण॒तामृषी᳚णाम् ।
इ॒मामा॒घोष॒न्नव᳚सा॒ सहू᳚तिं ति॒रो विश्वा{4}॒ अर्च᳚तो याह्य॒र्वाङ् ॥
इ॒मामा॒घोष॒न्नव᳚सा॒ सहू᳚तिं ति॒रो विश्वा{4}॒ अर्च᳚तो याह्य॒र्वाङ् ॥
पदपाठः (Word-by-word)
पु॒रूणि᳚ । हि । त्वा॒ । सव᳚ना । जना᳚नाम् । ब्रह्मा᳚णि । मन्द᳚न् । गृ॒ण॒ताम् । ऋषी᳚णाम् ।
इ॒माम् । आ॒॑घोष᳚न् । अव᳚सा । स॑हू᳚तिम् । ति॒रः । विश्वा᳚न् । अर्च᳚तः । या॒हि॒ । अ॒र्वाङ् ॥
इ॒माम् । आ॒॑घोष᳚न् । अव᳚सा । स॑हू᳚तिम् । ति॒रः । विश्वा᳚न् । अर्च᳚तः । या॒हि॒ । अ॒र्वाङ् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वा त्वां जनानां सम्बन्धीनि पुरूणि बहूनि सवना सवनानि ब्रह्मानि स्तोत्राणि च मन्दन्। स्तुवन्ति मोदयन्ति व गृणतां स्तुवतामृषीणामिमां सहूतिं स्तुतिं त्वमाघोषन् महती शब्दवती चेयं स्तुतिरिति वदन्नर्चतः स्तुवतोऽन्यान्विश्वान्सर्वानपि तिरस्तिरस्कृत्यावसा रक्षणेन सहार्वाङ्स्मदभिमुखं याहि। गच्छ॥१६॥