श्रवणम्

10.89.2
स सूर्य॒ः पर्यु॒रू वरां॒स्येन्द्रो᳚ ववृत्या॒द्रथ्ये᳚व च॒क्रा ।
अति᳚ष्ठन्तमप॒स्यं१॒᳚ न सर्गं᳚ कृ॒ष्णा तमां᳚सि॒ त्विष्या᳚ जघान ॥
▶ पदपाठः (Word-by-word)
सः । सूर्यः᳚ । परि᳚ । उ॒रु । वरां᳚सि । आ । इन्द्रः᳚ । व॒वृ॒त्या॒त् । रथ्या᳚॑इव । च॒क्रा ।
अति᳚ष्ठन्तम् । अ॒प॒स्य᳚म् । न । सर्ग᳚म् । कृ॒ष्णा । तमां᳚सि । त्विष्या᳚ । ज॒घा॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यः सुवीर्यः स प्रसिद्ध इन्द्र उरु बहूनि वरांसि तेजांसि पर्या ववृत्यात्। पर्यावर्तयति। तत्र दृष्टान्तः। रथ्येव यथा सारथी रथसम्बन्धीनि चक्रा चक्राण्यावर्तयति तद्वदित्यर्थः। किञ्च सोऽयमतिष्थन्तं शीघ्रं गच्छन्तमपस्यं न कर्मण्यमिव सर्गम्। सृज्यत इति सर्गोऽश्वः। कृष्णानि तमांसि त्विष्या दीप्त्या जघान। हन्ति॥२॥