यस्मि॒न्नश्वा᳚स ऋष॒भास᳚ उ॒क्षणो᳚ व॒शा मे॒षा अ᳚वसृ॒ष्टास॒ आहु᳚ताः ।
की॒ला॒ल॒पे सोम᳚पृष्ठाय वे॒धसे᳚ हृ॒दा म॒तिं ज᳚नये॒ चारु᳚म॒ग्नये᳚ ॥
की॒ला॒ल॒पे सोम᳚पृष्ठाय वे॒धसे᳚ हृ॒दा म॒तिं ज᳚नये॒ चारु᳚म॒ग्नये᳚ ॥
पदपाठः (Word-by-word)
यस्मि᳚न् । अश्वा᳚सः । ऋ॒ष॒भासः᳚ । उ॒क्षणः᳚ । व॒शाः । मे॒षाः । अ॒व॒॑सृ॒ष्टासः᳚ । आ॑हु᳚ताः ।
की॒ला॒ल॒॑पे । सोम᳚॑पृष्ठाय । वे॒धसे᳚ । हृ॒दा । म॒तिम् । ज॒न॒ये॒ । चारु᳚म् । अ॒ग्नये᳚ ॥
की॒ला॒ल॒॑पे । सोम᳚॑पृष्ठाय । वे॒धसे᳚ । हृ॒दा । म॒तिम् । ज॒न॒ये॒ । चारु᳚म् । अ॒ग्नये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यस्मिन्नग्नावुक्षण उक्षाणः। वा षपूर्वस्य निगम इति दीर्घविकल्पः। सेचनसमर्था अश्वासोऽश्वा ऋषभासो वृषभाश्च वशाः स्वभाववन्ध्याश्च मेशाश्चावसृष्टासो देवतार्थमवसृष्टाः परित्यक्ताः सन्तोऽश्वमेध आहुता आभिमुख्येन हुता भवन्ति कीलालपे सौत्रामण्यां सुरां पिबते। कीलालमित्युदकनामसु पाठात्। उदकं पिबते सोमपृष्थाय सोमयुक्तः पृष्ठ उपरिभागो यस्य तस्मै सोमपृष्ठाय वेधसे विधात्रे तस्मा अग्नये हृदा हृदयेन चारुं कल्याणीं मतिं स्तुतिं जनये। जनयामि। उत्पादयामि॥१५॥