श्रवणम्

10.91.9
त्वामिदत्र᳚ वृणते त्वा॒यवो॒ होता᳚रमग्ने वि॒दथे᳚षु वे॒धसः᳚ ।
यद्दे᳚व॒यन्तो॒ दध᳚ति॒ प्रयां᳚सि ते ह॒विष्म᳚न्तो॒ मन᳚वो वृ॒क्तब᳚र्हिषः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । इत् । अत्र᳚ । वृ॒ण॒ते॒ । त्वा॒॑यवः᳚ । होता᳚रम् । अ॒ग्ने॒ । वि॒दथे᳚षु । वे॒धसः᳚ ।
यत् । दे॒व॒॑यन्तः᳚ । दध᳚ति । प्रयां᳚सि । ते॒ । ह॒विष्म᳚न्तः । मन᳚वः । वृ॒क्त॑ब᳚र्हिषः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने होतारं देवानां ह्वातरमग्निं त्वामित्त्वामेव त्वायवस्त्वत्कामा वेधसः कर्मणां कर्तार ऋत्विजोऽत्रास्मिंल्लोके विदथेषु यज्ञेषु वृणते। प्रार्थयन्ते। कदेत्यत्राह। यद्यदा देवयन्तो देवान्यष्टुं स्तोतुं वेच्छन्तो वृक्तबर्हिषश्छिन्नबर्हिषो हविष्मन्तः संस्कृतहविष्का मनवो मनुष्या ऋत्विजस्ते तुभ्यं प्रयांसि हवींषि दधति धारयन्ति। प्रयच्छन्तीत्यर्थः॥९॥