तव॒ श्रियो᳚ व॒र्ष्य᳚स्येव वि॒द्युत᳚श्चि॒त्राश्चि᳚कित्र उ॒षसां॒ न के॒तवः᳚ ।
यदोष᳚धीर॒भिसृ᳚ष्टो॒ वना᳚नि च॒ परि᳚ स्व॒यं चि᳚नु॒षे अन्न᳚मा॒स्ये᳚ ॥
यदोष᳚धीर॒भिसृ᳚ष्टो॒ वना᳚नि च॒ परि᳚ स्व॒यं चि᳚नु॒षे अन्न᳚मा॒स्ये᳚ ॥
पदपाठः (Word-by-word)
तव᳚ । श्रियः᳚ । व॒र्ष्य᳚स्य॑इव । वि॒॑द्युतः᳚ । चि॒त्राः । चि॒कि॒त्रे॒ । उ॒षसा᳚म् । न । के॒तवः᳚ ।
यत् । ओष᳚धीः । अ॒भि॑सृ᳚ष्टः । वना᳚नि । च॒ । परि᳚ । स्व॒यम् । चि॒नु॒षे । अन्न᳚म् । आ॒स्ये᳚ ॥
यत् । ओष᳚धीः । अ॒भि॑सृ᳚ष्टः । वना᳚नि । च॒ । परि᳚ । स्व॒यम् । चि॒नु॒षे । अन्न᳚म् । आ॒स्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
...... यथा वर्षितुर्मेथस्य सम्बन्धिन्यो विद्युत उषसां न यथा चोषसां केतवः प्रज्ञानास्तत्स्थाः प्रकाशाः प्रज्ञायन्ते तद्वदित्यर्थः। तदेत्यत्राह। यद्यदा त्वमोषधीर्व्रीह्याद्या वनान्यरण्यानि चाभिसृष्टः सृष्टो दग्धुं विस्यष्टः सन् स्वयमात्मनास्ये मुखेऽन्नमदनीयं स्थावरलक्षणं परि चिनुषे। परिक्षिपसीत्यर्थः॥५॥