श्रवणम्

10.91.11
यस्तुभ्य᳚मग्ने अ॒मृता᳚य॒ मर्त्य᳚ः स॒मिधा॒ दाश᳚दु॒त वा᳚ ह॒विष्कृ᳚ति ।
तस्य॒ होता᳚ भवसि॒ यासि᳚ दू॒त्य१॒᳚मुप᳚ ब्रूषे॒ यज᳚स्यध्वरी॒यसि᳚ ॥
▶ पदपाठः (Word-by-word)
यः । तुभ्य᳚म् । अ॒ग्ने॒ । अ॒मृता᳚य । मर्त्यः᳚ । स॒म्॑इधा᳚ । दाश᳚त् । उ॒त । वा॒ । ह॒विः॑कृ᳚ति ।
तस्य᳚ । होता᳚ । भ॒व॒सि॒ । यासि᳚ । दू॒त्य᳚म् । उप᳚ । ब्रू॒षे॒ । यज᳚सि । अ॒ध्व॒रि॒॑यसि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अमृताय मरणधर्मवर्जिताय तुभ्यं यो मर्त्यो मनुष्यः समिधा समिधम् । द्वितीयायाः सुपां लुलुगित्याकारः। दाशत् ददति प्रयच्छति उतवापि वा हविष्कृति। हविषां कृत् करणं यस्मिन् स हविष्कृत्। तस्मिन्यज्ञे हवींषि ददातीति शेशः। तस्य मनुष्यस्य होता देवानामाह्वाता भवसि। किञ्च त्वं दूत्यं देवान्प्रति दूतकर्म कर्तुं यासि। गच्छसि। किञ्च त्वं ब्रह्मा भूत्वास्मिन्कर्मणि युष्मभ्यमिमानि हवींषि यजमानेन प्रहितानीत्युप बृषे। उपक्रम्य ब्रवीषि। किञ्च त्वं यजसि। यजमानो भूत्वा देवेभ्यो हवींषि ददासि। किञ्च त्वं तथा पूर्वोक्तप्रकारेणाध्वरीयसि। अध्वर्युदिवाचरसि। अथवान्यं यज्ञं कर्तुमिच्छसि॥११॥