इ॒मां प्र॒त्नाय᳚ सुष्टु॒तिं नवी᳚यसीं वो॒चेय᳚मस्मा उश॒ते शृ॒णोतु᳚ नः ।
भू॒या अन्त᳚रा हृ॒द्य᳚स्य नि॒स्पृशे᳚ जा॒येव॒ पत्य᳚ उश॒ती सु॒वासा᳚ः ॥
भू॒या अन्त᳚रा हृ॒द्य᳚स्य नि॒स्पृशे᳚ जा॒येव॒ पत्य᳚ उश॒ती सु॒वासा᳚ः ॥
पदपाठः (Word-by-word)
इ॒माम् । प्र॒त्नाय᳚ । सु॒॑स्तु॒तिम् । नवी᳚यसीम् । वो॒चेय᳚म् । अ॒स्मै॒ । उ॒श॒ते । शृ॒णोतु᳚ । नः॒ ।
भू॒याः । अन्त᳚रा । हृ॒दि । अ॒स्य॒ । नि॒॑स्पृशे᳚ । जा॒या॑इ᳚व । पत्ये᳚ । उ॒श॒ती । सु॒॑वासाः᳚ ॥
भू॒याः । अन्त᳚रा । हृ॒दि । अ॒स्य॒ । नि॒॑स्पृशे᳚ । जा॒या॑इ᳚व । पत्ये᳚ । उ॒श॒ती । सु॒॑वासाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
प्रत्नाय पुराणायोशते सोत्रं कामयमानायास्मा अग्नये नवीयसीं नवतरामन्यैरकृतपूर्वां सुष्टुतिं शोभनस्तुतिं वोचेयम्। अहं वक्ष्यामि। सोऽग्निरस्मदीयां स्तुतिं शृणोतु। किञ्चाहमस्याग्नेर्हृदि हृदये तत्राप्यन्तरा मध्ये निस्पृशे संस्पर्शनाय। गुणैरनुरञ्जनायेत्यर्थः। भूयाः। भूयासम्। व्यत्ययेन मध्यमः। अग्नेर्हृदिस्पृगहं स्यामित्यर्थः। अथवा मम सुष्तुतेरनु प्रवेष्टा भवेति योज्यम्। समानमन्यत्। तत्र दृष्टान्तः। पत्ये पत्युर्हृदयस्य मध्ये सुवासाः शोभनवस्त्रादिना मण्डिता जायोशती कामयमाना यथेष्टतमा भवति तद्वदित्यर्थः॥१४॥