सु॒दक्षो॒ दक्षै॒ः क्रतु᳚नासि सु॒क्रतु॒रग्ने᳚ क॒विः काव्ये᳚नासि विश्व॒वित् ।
वसु॒र्वसू᳚नां क्षयसि॒ त्वमेक॒ इद्द्यावा᳚ च॒ यानि᳚ पृथि॒वी च॒ पुष्य᳚तः ॥
वसु॒र्वसू᳚नां क्षयसि॒ त्वमेक॒ इद्द्यावा᳚ च॒ यानि᳚ पृथि॒वी च॒ पुष्य᳚तः ॥
पदपाठः (Word-by-word)
सु॒॑दक्षः᳚ । दक्षः᳚ । क्रतु᳚ना । अ॒सि॒ । सु॒॑क्रतुः᳚ । अग्ने᳚ । क॒विः । काव्ये᳚न । अ॒सि॒ । वि॒श्व॒॑वित् ।
वसुः᳚ । वसू᳚नाम् । क्ष॒य॒सि॒ । त्वम् । एकः᳚ । इत् । द्यावा᳚ । च॒ । यानि᳚ । पृ॒थि॒वी इति᳚ । च॒ । पुष्य᳚तः ॥
वसुः᳚ । वसू᳚नाम् । क्ष॒य॒सि॒ । त्वम् । एकः᳚ । इत् । द्यावा᳚ । च॒ । यानि᳚ । पृ॒थि॒वी इति᳚ । च॒ । पुष्य᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं दक्षैर्बलैः सुदक्षः सुबलोऽसि। भवसि। किञ्च क्रतुना कर्मणा सुक्रतुः शोभनकर्मासि। किञ्च काव्येन मेधाविकर्मणा कविर्मेधाव्यसि। किञ्च विश्ववित्सर्वज्ञोऽसि। किञ्च वसूनां धनानां वसुर्वासयितासि। किञ्च हे अग्ने त्वमेक इदेक एव क्षयसि। निवससि। किञ्च द्यावा च पृथिवी च द्यावाभूमी यानि वसूनि पुष्यतः संवर्धयतः तेषां दिव्यानां पार्थिवानां च धनानामीशिष इत्यर्थः॥३॥