श्रवणम्

10.91.12
इ॒मा अ᳚स्मै म॒तयो॒ वाचो᳚ अ॒स्मदा{4} ऋचो॒ गिरः᳚ सुष्टु॒तय॒ः सम᳚ग्मत ।
व॒सू॒यवो॒ वस᳚वे जा॒तवे᳚दसे वृ॒द्धासु᳚ चि॒द्वर्ध᳚नो॒ यासु᳚ चा॒कन᳚त् ॥
▶ पदपाठः (Word-by-word)
इ॒माः । अ॒स्मै॒ । म॒तयः᳚ । वाचः᳚ । अ॒स्मत् । आ । ऋचः᳚ । गिरः᳚ । सु॒॑स्तु॒तयः᳚ । सम् । अ॒ग्म॒त॒ ।
व॒सु॒॑यवः᳚ । वस᳚वे । जा॒त॑वे᳚दसे । वृ॒द्धासु᳚ । चि॒त् । वर्ध᳚नः । यासु᳚ । चा॒कन᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदसे जातप्रज्ञाय वसवे वासयित्रेऽस्मा अग्नये मतयः पूजयित्र्य इमा वाचो वसूयवोऽस्मदर्थं धनकामाः सत्योऽस्मदस्मत्तो निर्गत्या समग्मत। आभिमुख्येन सङ्गच्छन्ते। तमिममग्निं प्रीणयन्त्वित्यर्थः। काः पुनस्ताः। सुष्टुतयः शोभनस्तुतिरूपा ऋच ऋगात्मिका गिरो वाचः। तथा यासु वृद्धासु चित् स्वत एव वृद्धास्वपि वर्धनः पुनरपि वर्धयिता सन्नग्निश्चाकनत् स्तोतॄन्कामयते। इमा मतय इत्यन्वयः॥१२॥