वातो᳚पधूत इषि॒तो वशा{4}॒ अनु᳚ तृ॒षु यदन्ना॒ वेवि᳚षद्वि॒तिष्ठ᳚से ।
आ ते᳚ यतन्ते र॒थ्यो॒३॒᳚ यथा॒ पृथ॒क्छर्धां᳚स्यग्ने अ॒जरा᳚णि॒ धक्ष᳚तः ॥
आ ते᳚ यतन्ते र॒थ्यो॒३॒᳚ यथा॒ पृथ॒क्छर्धां᳚स्यग्ने अ॒जरा᳚णि॒ धक्ष᳚तः ॥
पदपाठः (Word-by-word)
वात᳚॑उपधूतः । इ॒षि॒तः । वशा᳚न् । अनु᳚ । तृ॒षु । यत् । अन्ना᳚ । वेवि᳚षत् । वि॒॑तिष्ठ᳚से ।
आ । ते॒ । य॒त॒न्ते॒ । र॒थ्यः᳚ । यथा᳚ । पृथ᳚क् । शर्धां᳚सि । अ॒ग्ने॒ । अ॒जरा᳚णि । धक्ष᳚तः ॥
आ । ते॒ । य॒त॒न्ते॒ । र॒थ्यः᳚ । यथा᳚ । पृथ᳚क् । शर्धां᳚सि । अ॒ग्ने॒ । अ॒जरा᳚णि । धक्ष᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने यद्यदा त्वं वातोपधूतो वायुना कम्पितो वशान्कान्तान्वनस्पतीननु प्रति तृषु क्षिप्रमिषितः प्रेरितश्च सन्नन्नान्यदनीयानि वनस्पत्यादीनि स्थावराण् वेविषद्व्याप्नुवन्वितिष्ठसे इतस्ततो गच्छसि तदानीं धक्षत काननानि दहतस्ते तवाजराणि जरारहितानि शर्धांसि तेजांसि यथा रथ्यो रथिनस्तद्वत्पृथगा यतन्ते। गच्छन्ति॥७॥