अक्षे᳚त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति᳚ क्षेत्र॒विदानु᳚शिष्टः ।
ए॒तद्वै भ॒द्रम᳚नु॒शास᳚नस्यो॒त स्रु॒तिं वि᳚न्दत्यञ्ज॒सीना᳚म् ॥
ए॒तद्वै भ॒द्रम᳚नु॒शास᳚नस्यो॒त स्रु॒तिं वि᳚न्दत्यञ्ज॒सीना᳚म् ॥
पदपाठः (Word-by-word)
अक्षे᳚त्र॑वित् । क्षे॒त्र॒॑विद᳚म् । हि । अप्रा᳚ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒॑विदा᳚ । अनु᳚॑शिष्टः ।
ए॒तत् । वै । भ॒द्रम् । अ॒नु॒॑शास᳚नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना᳚म् ॥
ए॒तत् । वै । भ॒द्रम् । अ॒नु॒॑शास᳚नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
सेयमनुशासनस्तुतिः प्रासंगिकी अक्षेत्रवित् क्षिनिवासगत्योः क्षीयते गम्यतेनेनेति क्षेत्रं पंथाः पंथानमजानन्पुरुषः क्षेत्रविदं क्षेत्रज्ञं पुरुषं अप्राट् पृष्टवान् सक्षेत्रविदा पथिज्ञेन ते- नानुशिष्ठः प्रदर्शितमार्गः सन्प्रैति स्वाभिलषितदेशं गच्छति अनुशासनस्यस्वर्गोपदेशरूपस्य एतद्वैएतत्खलु भद्रं भजनीयं कल्याणकरं किंतत् । उतापिच अञ्चसीनां ऋजुना मार्गेण गन्तव्यानां अपां स्रुतिं मार्गं पिपासितः सन्विन्दति लभते । यद्वा अञ्चसीनामिति स्रतेर्वि- शेषणं ऋजुमकुटिलं अप्रयासेन गन्तव्यमार्गं लभते खलु ॥ ७ ॥