प्र वो॑च्छा᳚ रिरिचे देव॒युष्प॒दमेको᳚ रु॒द्रेभि᳚र्याति तु॒र्वणि᳚ः ।
ज॒रा वा॒ येष्व॒मृते᳚षु दा॒वने॒ परि᳚ व॒ ऊमे᳚भ्यः सिञ्चता॒ मधु᳚ ॥
ज॒रा वा॒ येष्व॒मृते᳚षु दा॒वने॒ परि᳚ व॒ ऊमे᳚भ्यः सिञ्चता॒ मधु᳚ ॥
पदपाठः (Word-by-word)
प्र । वः॒ । अच्छ᳚ । रि॒रि॒चे॒ । दे॒व॒॑युः । प॒दम् । एकः᳚ । रु॒द्रेभिः᳚ । या॒ति॒ । तु॒र्वणिः᳚ ।
ज॒रा । वा॒ । येषु᳚ । अ॒मृते᳚षु । दा॒वने᳚ । परि᳚ । वः॒ । ऊमे᳚भ्यः । सि॒ञ्च॒त॒ । मधु᳚ ॥
ज॒रा । वा॒ । येषु᳚ । अ॒मृते᳚षु । दा॒वने᳚ । परि᳚ । वः॒ । ऊमे᳚भ्यः । सि॒ञ्च॒त॒ । मधु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे यजमानाः देवयुः देवान्कामयमानो होता वो युष्माकं पदमच्छस्थानं प्रति प्ररिरिचे अतिरिक्तोभूत् अन्यहोतृभ्यः सकाशात् एकः मुख्यः इन्द्रः रुद्रेभिः रुद्रपुत्रैर्मरुद्भिः सह तुर्व- णिः क्षिप्रगामीसन् याति गच्छति युष्मदीयं यज्ञं जरावा वाशब्दोप्यर्थे स्तुतिरपि एष्व मृतेषु मरणधर्मरहितेषु देवेषु दावने धनप्रदानाय समर्था भवति तस्मात् वो यूयं छान्द सोवसादेशः ऊमेभ्यो रक्षितृभ्यो देवेभ्यः मधु मदकरं सोमं अद्भिः परिषिञ्चत ॥ ५ ॥