श्रवणम्

10.32.6
नि॒धी॒यमा᳚न॒मप᳚गूळ्हम॒प्सु प्र मे᳚ दे॒वानां᳚ व्रत॒पा उ᳚वाच ।
इन्द्रो᳚ वि॒द्वा{4} अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम᳚ग्ने॒ अनु᳚शिष्ट॒ आगा᳚म् ॥
▶ पदपाठः (Word-by-word)
नि॒॑धी॒यमा᳚नम् । अप᳚॑गूळ्हम् । अ॒प्॑सु । प्र । मे॒ । दे॒वाना᳚म् । व्र॒त॒॑पाः । उ॒वा॒च॒ ।
इन्द्रः᳚ । वि॒द्वान् । अनु᳚ । हि । त्वा॒ । च॒चक्ष᳚ । तेन᳚ । अ॒हम् । अ॒ग्ने॒ । अनु᳚॑शिष्टः । आ । अ॒गा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कुरुश्रवणस्य यज्ञे निधीयमानोग्निरभिधीयते निधीयमानं अध्वर्युणा हवनीयेग्नौ अप्सु मातृभूतासु अपगूह्ळं अन्तर्हितं देवानां व्रतपाः कर्मणोरक्षकः इन्द्रः मे मह्यं प्रोवाच प्रा- वादीत् हे अग्ने विद्वान् जानानइन्द्रः स्वाधिकारमस्मद्भक्ततां वा त्वा त्वां अनुहि चचक्ष अनुगतः पश्चाद्ददर्श तेनेन्द्रेणानुशिष्टोहं अनेन पथा त्वया स्वर्गोगन्तव्यइत्येवमुपदिष्टः सन् आगां आभिमुख्येन स्वर्गं गच्छेयं ॥ ६ ॥