मा॒ता यन्मन्तु᳚र्यू॒थस्य᳚ पू॒र्व्याभि वा॒णस्य᳚ स॒प्तधा᳚तु॒रिज्जनः᳚ ॥
पदपाठः (Word-by-word)
मा॒ता । यत् । मन्तुः᳚ । यू॒थस्य᳚ । पू॒र्व्या । अ॒भि । वा॒णस्य᳚ । स॒प्त॑धा᳚तुः । इत् । जनः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तदित् तदेव सधस्थं सहतिष्ठन्त्यत्रेति सधस्थं स्थानं यज्ञाख्यं चारु शोभनं अभिदीध- य हे इन्द्र अभितो दीप्यस्व यद्यत्र गावः स्तुतिलक्षणावाचः इन्द्र आगच्छ हरिव आग- च्छेत्येवमाद्याः शासन् अस्मद्यज्ञंप्रति त्वदागमनमाशासते । तत्र दृष्टान्तः—वहतुंन यथा धे- नवो नवप्रसूतागावः प्रपणसाधनं गृहं आशासते तद्वत् । यतः आगत्य प्रकाशयेत्यत्र कारण- माह—यद्यस्मात् मन्तुः मन्यतिरर्चतिकर्मा अर्चकस्य मम स्वभूता माता देवतागणानां नि ष्पादयित्री स्तुतिर्यूथस्य यष्टृस्तोतृगणस्य पूर्व्या प्रथमभागिनी खलु यस्माच्चसप्तधातुः धार्य न्ते क्रियन्ते कर्माण्येभिरिति धातवश्छदांसि ऋतवो वा सप्तछ्न्दस्कः सप्तर्तुकः सप्तहोत्रात्म कोवायं जनः वाणस्यस्तुतिशब्दस्य अभिकर्ता खलु तस्माच्छीघ्रमागच्छेति भावः । यद्वा यत्कल्याणं तदेव स्थानमस्माकमभिधारय प्रयच्छ यस्मिन्स्थाने धेनवः पयः प्रदानेन प्री- णयित्र्योगावः वहतुं उह्यते पुरुषोनेनेति वहतुरन्नं पयोघृतादि तत्तु शासति नः संप्रत्यर्थे इदानीं प्रयच्छन्ति तथा यस्मिन्मन्तुः मन्तव्यापूजनीयापुत्रसमूहस्य माताभिगच्छति वाण स्य सप्तधातुः निषादादिसप्तस्वरोपेतो जनः अभिगच्छति तद्वत् तद्गुणोपेतं प्रयच्छेति भावः ॥ ४ ॥