वी᳚न्द्र यासि दि॒व्यानि᳚ रोच॒ना वि पार्थि᳚वानि॒ रज᳚सा पुरुष्टुत ।
ये त्वा॒ वह᳚न्ति॒ मुहु᳚रध्व॒रा{4} उप॒ ते सु व᳚न्वन्तु वग्व॒ना{4} अ᳚रा॒धसः᳚ ॥
ये त्वा॒ वह᳚न्ति॒ मुहु᳚रध्व॒रा{4} उप॒ ते सु व᳚न्वन्तु वग्व॒ना{4} अ᳚रा॒धसः᳚ ॥
पदपाठः (Word-by-word)
वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि᳚ । रो॒च॒ना । वि । पार्थि᳚वानि । रज᳚सा । पु॒रु॒॑स्तु॒त॒ ।
ये । त्वा॒ । वह᳚न्ति । मुहुः᳚ । अ॒ध्व॒रान् । उप᳚ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः᳚ ॥
ये । त्वा॒ । वह᳚न्ति । मुहुः᳚ । अ॒ध्व॒रान् । उप᳚ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र दिव्यानि दिविभवानि रोचना रोचनानिदीप्तिस्वभावकानि ज्योतींषि यद्वा दिव्यान् लोकान्वियासि व्याप्नोषिहेपुरुष्टुत बहुभिः स्तुतेन्द्र पार्थिवानि पृथिव्यां भवानि रजसा आत्मीयेन ज्योतिषा विद्युल्लक्षणेन यद्वा रजःशब्दाच्छसआकारः पार्थिवान् लो- कान् व्याप्नोषि येत्वदीयाअश्वाः मुहुः पुनःपुनः अध्वरानस्मदीयान्यज्ञान्प्रति त्वा त्वां उ- पावहन्ति समीपे प्रापयन्ति । तेश्वाः वग्वनान् वचनेन स्तुत्या संभजमानान् अराधसः धनरहितानस्मान् सुष्ठु वन्वंतु धनप्रदानार्थं संभजंतां ॥ २ ॥