श्रवणम्

10.32.9
ए॒तानि᳚ भ॒द्रा क᳚लश क्रियाम॒ कुरु᳚श्रवण॒ दद᳚तो म॒घानि᳚ ।
दा॒न इद्वो᳚ मघवान॒ः सो अ᳚स्त्व॒यं च॒ सोमो᳚ हृ॒दि यं बिभ᳚र्मि ॥
▶ पदपाठः (Word-by-word)
ए॒तानि᳚ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु᳚॑श्रवण । दद᳚तः । म॒घानि᳚ ।
दा॒नः । इत् । वः॒ । म॒घ॒॑वा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः᳚ । हृ॒दि । यम् । बिभ᳚र्मि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कलश कलावन् सर्वकलापरिपूर्ण यद्वा लुप्तमत्वर्थीयः द्रोणकलशवन् हे कुरुश्रवण कुरवऋत्विजः तेषां स्वभूतानां स्तुतीनां श्रोतः हेइन्द्र मघानि धनानि स्तोतृभ्योयष्टृभ्यश्च ददतः प्रयच्छतस्तवेन्द्रस्यार्थं एतानि भद्रा भजनीयानि हवींषि स्तोत्राणि च क्रियाम वि- धेयास्म करोतेराशीर्लिङि रिङ्शयग्लिङ् श्विति रिङादेशः । अथ स्तोतॄन्प्रत्याह हेमघवानः मंहनीयस्तोत्ररूपधनवन्तः वोयुष्माकं सइन्द्रः दानइत् धनादेर्दातैवास्तु भवतु अयंच यज्ञे- स्थितः सोमोदातास्तु हृदि हृदये आत्मीये यं पीतं सोमं बिभर्मि धारयामि डुभृञ्धारण- पोषणयोः जौहोत्यादिकः भृञामिदित्यभ्यासस्येत्वं यद्योगादनिघातः यद्वा हेकलश कुल- जात हे कुरुश्रवण एतन्नामक त्रसदस्योः पुत्र राजन् ऋत्विग्भ्योधनानि प्रयच्छतस्तवार्थं वयं कर्माणि क्रियामहे मघवानः कुरुश्रवणाः पूजायां बहुवचनं पदं यागकर्म कुर्वाणस्ये तव इन्द्रोदाता भवतु अयं सोमश्च धनानि प्रयच्छतु ॥ ९ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये सप्तमाष्टके सप्तमोध्यायः ॥ ९ ॥