इ॒यमे᳚षाम॒मृता᳚नां॒ गीः स॒र्वता᳚ता॒ ये कृ॒पण᳚न्त॒ रत्न᳚म् ।
धियं᳚ च य॒ज्ञं च॒ साध᳚न्त॒स्ते नो᳚ धान्तु वस॒व्य१॒᳚मसा᳚मि ॥
धियं᳚ च य॒ज्ञं च॒ साध᳚न्त॒स्ते नो᳚ धान्तु वस॒व्य१॒᳚मसा᳚मि ॥
पदपाठः (Word-by-word)
इ॒यम् । ए॒षा॒म् । अ॒मृता᳚नाम् । गीः । स॒र्व॑ता᳚ता । ये । कृ॒पण᳚न्त । रत्न᳚म् ।
धिय᳚म् । च॒ । य॒ज्ञम् । च॒ । साध᳚न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य᳚म् । असा᳚मि ॥
धिय᳚म् । च॒ । य॒ज्ञम् । च॒ । साध᳚न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य᳚म् । असा᳚मि ॥
सायणभाष्यम् (Sayana Commentary)
इयमेषाममृतानां यष्टव्यानां देवाना गीः स्तुतिः क्रियत इति शेषः। ये देवाः सर्वताता सर्वतातौ यज्ञे कृपणन्त प्रयच्छन्ति याच्यन्ते वा रत्नं रमणीयं धनम् । धियं चास्मदीयां स्तुतिं च यज्ञं साधन्तः साधयन्तस्तेनोऽस्मभ्यं वसव्यं वसुसमूहमसाम्यनल्पमसाधारणं वा धांतु। प्रयच्छन्तु॥३॥