श्रवणम्

10.74.2 समानपद
हव᳚ एषा॒मसु᳚रो नक्षत॒ द्यां श्र᳚वस्य॒ता मन᳚सा निंसत॒ क्षाम् ।
चक्षा᳚णा॒ यत्र᳚ सुवि॒ताय᳚ दे॒वा द्यौर्न वारे᳚भिः कृ॒णव᳚न्त॒ स्वैः ॥
▶ पदपाठः (Word-by-word)
हवः᳚ । ए॒षा॒म् । असु᳚रः । न॒क्ष॒त॒ । द्याम् । श्र॒व॒स्य॒ता । मन᳚सा । निं॒स॒त॒ । क्षाम् ।
चक्षा᳚णाः । यत्र᳚ । सु॒वि॒ताय᳚ । दे॒वाः । द्यौः । न । वारे᳚भिः । कृ॒णव᳚न्त । स्वैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऎषामनुष्ठातॄणामङ्गिरसां हव आह्वानशब्दोऽसुर इन्द्रस्य प्रेरको द्यां दिवं नक्षत। व्याप्नोत्। तत्रत्या इन्द्रसम्बन्धिनो देवाः श्रवस्यतन्नमिच्छता मनसा क्षां पृथिवीं निंसत। प्राप्तवन्तः। यत्र यस्यां पृथिव्यां चाक्षाणाः पणिभिरपहृता गाः पश्यन्तो देवाः सुविताय सुष्टुह् हिताय स्मात्मनोऽभ्युदयाय द्यौर्नादित्य इव वारेभिर्वरणीयैः स्वैस्तेजोभिः कृणवन्त प्रकाशमकुर्वन्। गवां प्रदानायान्धकाअमपनेतुमिति शेशः। अथवा एषां यज्विनामपहृतानां गवां हवोऽसुर इन्द्रस्य प्रेरयिता सन्नक्षत। इन्द्रप्रेरिता अङ्गिरसः श्रवस्यतान्नं कीर्तिं वेच्छता मनसा क्षां भूमिं निंसत। अनुष्थातॄणां गाः प्रदर्शयितुमित्यर्थः। इतरत्समानं॥२॥