श्रवणम्

10.74.6
यद्वा॒वान᳚ पुरु॒तमं᳚ पुरा॒षाळा वृ᳚त्र॒हेन्द्रो॒ नामा᳚न्यप्राः ।
अचे᳚ति प्रा॒सह॒स्पति॒स्तुवि᳚ष्मा॒न्यदी᳚मु॒श्मसि॒ कर्त᳚वे॒ कर॒त्तत् ॥
▶ पदपाठः (Word-by-word)
यत् । व॒वान᳚ । पु॒रु॒॑तम᳚म् । पु॒रा॒षाट् । आ । वृ॒त्र॒॑हा । इन्द्रः᳚ । नामा᳚नि । अ॒प्राः॒ ।
अचे᳚ति । प्र॒॑सहः᳚ । पतिः᳚ । तुवि᳚ष्मान् । यत् । ई॒म् । उ॒श्मसि᳚ । कर्त᳚वे । कर᳚त् । तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

निष्केवल्ये यद्वावानेत्येषा धाय्या। सूत्रितं च। यद्वावानेति धाय्या पिबा सुतस्य रसिन इति सामप्रगाथः। आ. ५-१५। इति। महाव्रतेऽप्येषा। तथैव पञ्चमारण्यके सुत्रितं च। यद्वावानेति धाया सूददोहाः। ऐ. आ. ५-२-२। इति॥

यद्यदा पुरुतममत्यन्तं प्रवृद्धतमं वृत्रं ववान हन्ति पुराषाट् शत्रुपुराणामभिभवितेन्द्रः तदानीमानन्तरमेव वृत्रहेन्द्रो नामान्युदकान्यप्राः। पूरयति। ब्यत्ययेन मध्यमः। सोऽयमिन्द्रः प्रासहः शत्रूणाम् प्रकर्षेणाभि भविता पतिह् सर्वस्य स्वामी तुविष्मान्। तुवीति बहुनाम तत्सामर्थ्याद्धनं परिगृह्यते। बहुधन इत्यर्थः। ईदृशः सन्नचेति। सर्वैः प्रज्ञातः। स महानिन्द्रो यदीं यदेतत्कर्मोश्मसि वयं कामयामहे तत्करत्। करोत्येव। इदं भवत्विदं भवत्विति यत्कामयामहे तत्तदानीमेव करोत्येव नोदास्त इत्यर्थः। सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाळित्यादिकं ब्राह्मणमत्र द्रष्टव्यम्। ऐ. ब्रा. ३-२२॥६॥