श्रवणम्

10.74.5
शची᳚व॒ इन्द्र॒मव᳚से कृणुध्व॒मना᳚नतं द॒मय᳚न्तं पृत॒न्यून् ।
ऋ॒भु॒क्षणं᳚ म॒घवा᳚नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं᳚ पुरु॒क्षुः ॥
▶ पदपाठः (Word-by-word)
शची᳚॑वः । इन्द्र᳚म् । अव᳚से । कृ॒णु॒ध्व॒म् । अना᳚नतम् । द॒मय᳚न्तम् । पृ॒त॒न्यून् ।
ऋ॒भु॒क्षण᳚म् । म॒घ॑वा᳚नम् । सु॒॑वृ॒क्तिम् । भर्ता᳚ । यः । वज्र᳚म् । नर्य᳚म् । पु॒रु॒॑क्षुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीवः कर्मवन्तो यजमानाः। व्यत्ययेनैकवचनम्। इन्द्रमवसे रक्षणाय कृणुध्वम्। कुरुध्वम्। कीदृशमिन्द्रम्। अनानतं कदाचिदपि परेषामनवनतं पृतन्यून्पृतना इच्छतः शत्रून्दमयन्तं वशं प्रापयन्तं ऋभुक्षनं महान्तं मघवानं धनवन्तं सुवृक्तिं सुष्तुतिम् । यः पुरुक्शुर्बहुशब्द इन्द्रो नर्यं नरेभ्यो हितम्। असुरविघातित्वात्। तादृशं वज्रं भर्ता बिभर्ति तमिन्द्रमवसे कृणुध्वमिति॥५॥