श्रवणम्

10.112.5
यस्य॒ शश्व᳚त्पपि॒वा{4} इ᳚न्द्र॒ शत्रू᳚ननानुकृ॒त्या रण्या᳚ च॒कर्थ᳚ ।
स ते॒ पुरं᳚धिं॒ तवि᳚षीमियर्ति॒ स ते॒ मदा᳚य सु॒त इ᳚न्द्र॒ सोमः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । शश्व᳚त् । प॒पि॒॑वान् । इ॒न्द्र॒ । शत्रू᳚न् । अ॒न॒नु॒॑कृ॒त्या । रण्या᳚ । च॒कर्थ᳚ ।
सः । ते॒ । पुर᳚म्॑धिम् । तवि᳚षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा᳚य । सु॒तः । इ॒न्द्र॒ । सोमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पपिवान्। पिबतेः क्वसौ वस्वेकाजाद्घसामितीडागमः। सोमं पीतवांस्त्वमनानुकृत्यानुकरनरहितेन सकृत्प्रहारेण शत्रुहननसमर्थेन रणाइ सांयुगीनेनायुधेन। रणशब्दात्साध्वर्थे प्राग्घितीयो यत्। यस्य यजमानस्य शत्रूञ्शश्वद्बहुवारं चकर्थ हतवानसि। कृञ् हिंसायाम् । लिटि थलि यद्योगादनिघाते लित्स्वरः। स यष्टा ते त्वदर्थं तविषीं महतीं पुरन्धिं बह्वीं स्तुतिमियर्ति। प्रेरयति। ऋ गतौ जौहात्यादिकः। अर्तिपिपर्त्योरित्यभ्यासस्येत्वम्। अभ्यासस्यासवर्न इतीयङ्। हे इन्द्र सुतोऽबिषुतः स सोमस्ते मदाय समर्थो भवति। यद्वा। स यष्टा सुतः सोमः। सुब्व्यत्ययः। अभिषुतं सोमं त्वन्मदाय प्रेरयति॥५॥