वि हि त्वामि᳚न्द्र पुरु॒धा जना᳚सो हि॒तप्र᳚यसो वृषभ॒ ह्वय᳚न्ते ।
अ॒स्माकं᳚ ते॒ मधु᳚मत्तमानी॒मा भु᳚व॒न्त्सव᳚ना॒ तेषु᳚ हर्य ॥
अ॒स्माकं᳚ ते॒ मधु᳚मत्तमानी॒मा भु᳚व॒न्त्सव᳚ना॒ तेषु᳚ हर्य ॥
पदपाठः (Word-by-word)
वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना᳚सः । हि॒त॑प्र᳚यसः । वृ॒ष॒भ॒ । ह्वय᳚न्ते ।
अ॒स्माक᳚म् । ते॒ । मधु᳚मत्॑तमानि । इ॒मा । भु॒व॒न् । सव᳚ना । तेषु᳚ । ह॒र्य॒ ॥
अ॒स्माक᳚म् । ते॒ । मधु᳚मत्॑तमानि । इ॒मा । भु॒व॒न् । सव᳚ना । तेषु᳚ । ह॒र्य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र वृषभ कामानां वर्षक हितप्रयसः। प्रय इत्यन्ननाम प्रीणनकारित्वात्। सम्भृतहविष्का जनासो जनाः पुरुधा बहुधा। हिरवधारने। त्वामेव विह्वयन्ते। विविधमाह्वयन्ति। ह्वेञ् स्पर्थायाम्। निसमुपविभ्यो ह्व इत्यात्मनेपदम्। अस्माकं स्वभुतानीमेमानि सवना सवनानि ते त्वदर्थं मधुमत्तमान्यतिशयेन सोमवन्ति भुवन्। अभवन्। तस्मात्त्वं तेषु सवनेषु हर्य। सोमान्कामयस्व॥७॥