श्रवणम्

10.112.2 समानपद
यस्ते॒ रथो॒ मन᳚सो॒ जवी᳚या॒नेन्द्र॒ तेन᳚ सोम॒पेया᳚य याहि ।
तूय॒मा ते॒ हर᳚य॒ः प्र द्र᳚वन्तु॒ येभि॒र्यासि॒ वृष᳚भि॒र्मन्द᳚मानः ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । रथः᳚ । मन᳚सः । जवी᳚यान् । आ । इ॒न्द्र॒ । तेन᳚ । सो॒म॒॑पेया᳚य । या॒हि॒ ।
तूय᳚म् । आ । ते॒ । हर᳚यः । प्र । द्र॒व॒न्तु॒ । येभिः᳚ । यासि᳚ । वृष᳚॑भिः । मन्द᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मनसोऽक्पि जवीयानतिशयेन गन्ता ते त्वदीयो यो रथोऽस्ति तेन रथेन सोमपेयायास्मदीयं सोमं पातुमा याहि। आगच्छ। पा पाने। भावेऽचो यत्। ईद्यतितीत्वम्। आर्धधातुकलक्षणो गुणः। कृदुत्तरपदप्रकृतिस्वरत्वम्। तथा ते त्वदीया हरयो रथे संयुक्ता अश्वास्तूयं क्षिप्रमाभिमुख्येन प्र द्रवन्तु। प्रगच्छन्तु। व्रुषभिः सेक्तृभिर्येभिर्यैरश्वैर्मदन्दमानो मोदमानः सन् यासि गच्छसि। हरी इन्द्रस्येति वचनादिन्द्रस्य द्वावेवाश्वाविति न चोदनीयं आ त्वा सहस्रमा शतमित्यादिनिगमान्तरे दर्शनात्। ऋ. ८-१-२४॥२॥