प्र त᳚ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या᳚ वोचं प्रथ॒मा कृ॒तानि᳚ ।
स॒ती॒नम᳚न्युरश्रथायो॒ अद्रिं᳚ सुवेद॒नाम᳚कृणो॒र्ब्रह्म᳚णे॒ गाम् ॥
स॒ती॒नम᳚न्युरश्रथायो॒ अद्रिं᳚ सुवेद॒नाम᳚कृणो॒र्ब्रह्म᳚णे॒ गाम् ॥
पदपाठः (Word-by-word)
प्र । ते॒ । इ॒न्द्र॒ । पू॒र्व्याणि᳚ । प्र । नू॒नम् । वी॒र्या᳚ । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि᳚ ।
स॒ती॒न॑म᳚न्युः । अ॒श्र॒थ॒यः॒ । अद्रि᳚म् । सु॒॑वे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म᳚णे । गाम् ॥
स॒ती॒न॑म᳚न्युः । अ॒श्र॒थ॒यः॒ । अद्रि᳚म् । सु॒॑वे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म᳚णे । गाम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते त्वदीयानि प्रथमादितः कृतानि पूर्व्याणि पुरातनानि च वीर्यावीर्याणि नूनमिदानीं प्र वोचम्। प्रकर्षेण वदामि। एकः प्रशब्दः पूरणः। वोचम् । लुङि ब्रवो वचिः। च्लेरङ्। कानि तानि। सतीनमन्युः। सतीनमित्युदकनाम। उदकाभिवर्षणबुद्धियुक्तस्त्वमिन्द्रं मेघमश्रथयः। वज्रेणाहिंसीः। ब्रह्मणे बृहस्पतये गां पणिभिरपहृतां सुवेदनां सुश्ठु ज्ञापनीयामकृणोः अकरोरित्यादीनि॥८॥