श्रवणम्

10.112.6 समानपद
इ॒दं ते॒ पात्रं॒ सन᳚वित्तमिन्द्र॒ पिबा॒ सोम᳚मे॒ना श᳚तक्रतो ।
पू॒र्ण आ᳚हा॒वो म᳚दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद᳚भि॒हर्य᳚न्ति दे॒वाः ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । ते॒ । पात्र᳚म् । सन᳚॑वित्तम् । इ॒न्द्र॒ । पिब᳚ । सोम᳚म् । ए॒ना । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
पू॒र्णः । आ॒॑हा॒वः । म॒दि॒रस्य᳚ । मध्वः᳚ । यम् । विश्वे᳚ । इत् । अ॒भि॒॑हर्य᳚न्ति । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदर्थं पात्रं चमसादिकं सनवित्तम्। अस्माभिश्चिरादेव लब्धम् । विद्लृलाभे। कर्मणि निष्था। हे शतक्रतो बहुकर्मन्निन्द्रैनैतेन पात्रेण सोमं पिब। यतो मदिरस्य मदकरस्य मध्वो मधुनः सोमस्याहावः पानस्थानीयपात्रविशेशः पूर्णः पूरितोऽभुत्। ह्वेञ् स्पर्धायाम्। निपानमाहावः। पा. ३-३-७४। इति नोपातितः। स्तुतिभिराहूयमाना देवा अत्र सोमम् पिबन्तिति। थाथादिस्वरः। यमिद्यमाहावमेव विश्वे सर्वे देवा आभिहर्यन्ति। अभिकामयन्ते। हर्य गतिकान्त्योः भौवादिकः। यद्योगात्तिङो निघाताभावे तिङि चोदात्तवतीति गतेर्निघातः॥६॥