श्रवणम्

10.86.12
नाहमि᳚न्द्राणि रारण॒ सख्यु᳚र्वृ॒षाक᳚पेरृ॒ते ।
यस्ये॒दमप्यं᳚ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ᳚ति॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
न । अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः᳚ । वृ॒षाक᳚पेः । ऋ॒ते ।
यस्य᳚ । इ॒दम् । अप्य᳚म् । ह॒विः । प्रि॒यम् । दे॒वेषु᳚ । गच्छ᳚ति । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राणि अहमिन्द्रः सख्युर्मम सखिभूताद्वृषाकपेरृते प्रियं वृषाकपिं विना न रराण। न रमे। अप्यमप्सु भवमद्भिर्वा सुसंस्कृतं प्रियं प्रीतिकरमिदमुपस्थितं हविर्देवेषु देवनां मध्ये यस्य ममेन्द्रस्य सकाशं गच्छति। यश्चाहमिन्द्रः सर्वस्मादुत्तरः। यद्वा। अयमर्थः। हे इन्द्राणी वृषाकपेः सख्युरिन्द्रादृतेऽहं वृषाकपिर्न रराण। न रमे। आन्यत्समानम्॥१२॥