श्रवणम्

10.19.3
पुन᳚रे॒ता नि व᳚र्तन्ताम॒स्मिन्पु᳚ष्यन्तु॒ गोप᳚तौ ।
इ॒हैवाग्ने॒ नि धा᳚रये॒ह ति᳚ष्ठतु॒ या र॒यिः ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । ए॒ताः । नि । व॒र्त॒न्ता॒म् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गो॑प᳚तौ ।
इ॒ह । ए॒व । अ॒ग्ने॒ । नि । धा॒र॒य॒ । इ॒ह । ति॒ष्ठ॒तु॒ । या । र॒यिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनाएताःईदृश्योगावः आपोवा पुनर्निवर्तन्तां भूयोभूयोमां प्रत्यागच्छंतु आगत्य । च गोपतौ सास्नादिमतीनां धेनूनां वृष्टिलक्षणानामपां च पालके अस्मिन्नीदृशे मयि पुष्यन्तु आत्मायत्तत्वेन स्थित्वा पुष्टाभवन्तु । पुष्टाः सतीस्ताः हे अग्ने त्वं इहैव अस्मिन्नेव मयि निधारय नियमेन स्थापय । या रयिः यदपि व्रीह्यादिकं धनमस्ति तदपि धनं गोसहितं इहास्मिन्नेव गोपतौ मयि तिष्ठतु निवसतु ॥ ३ ॥