परि᳚ वो वि॒श्वतो᳚ दध ऊ॒र्जा घृ॒तेन॒ पय᳚सा ।
ये दे॒वाः के च᳚ य॒ज्ञिया॒स्ते र॒य्या सं सृ᳚जन्तु नः ॥
ये दे॒वाः के च᳚ य॒ज्ञिया॒स्ते र॒य्या सं सृ᳚जन्तु नः ॥
पदपाठः (Word-by-word)
परि᳚ । वः॒ । वि॒श्वतः᳚ । द॒धे॒ । ऊ॒र्जा । घृ॒तेन᳚ । पय᳚सा ।
ये । दे॒वाः । के । च॒ । य॒ज्ञियाः᳚ । ते । र॒य्या । सम् । सृ॒ज॒न्तु॒ । नः॒ ॥
ये । दे॒वाः । के । च॒ । य॒ज्ञियाः᳚ । ते । र॒य्या । सम् । सृ॒ज॒न्तु॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवाः विश्वतः सर्वतः स्थितान् वोयुष्मान् ऊर्जागोसंबन्धिना दधिलक्षणेनान्नेन घृते नाज्येन च पयसा क्षीरेण च परिदधे संधारयामि युष्मभ्यं हविर्द्वारेण प्रयच्छामि न के- वलमात्मानं पुष्णामीत्यर्थः । एतत् ज्ञात्वा ये के च देवाः यज्ञियायज्ञार्हाः सन्ति ते देवाः नोस्मान् रय्या गोलक्षणेन धनेन संसृजंतु संयोजयन्तु ॥ ७ ॥