अ॒हं स यो नव᳚वास्त्वं बृ॒हद्र᳚थं॒ सं वृ॒त्रेव॒ दासं᳚ वृत्र॒हारु᳚जम् ।
यद्व॒र्धय᳚न्तं प्र॒थय᳚न्तमानु॒षग्दू॒रे पा॒रे रज᳚सो रोच॒नाक᳚रम् ॥
यद्व॒र्धय᳚न्तं प्र॒थय᳚न्तमानु॒षग्दू॒रे पा॒रे रज᳚सो रोच॒नाक᳚रम् ॥
पदपाठः (Word-by-word)
अ॒हम् । सः । यः । नव᳚॑वास्त्वम् । बृ॒हत्॑र᳚थम् । सम् । वृ॒त्रा॑इ᳚व । दास᳚म् । वृ॒त्र॒॑हा । अरु᳚जम् ।
यत् । व॒र्धय᳚न्तम् । प्र॒थय᳚न्तम् । आ॒नु॒षक् । दू॒रे । पा॒रे । रज᳚सः । रो॒च॒ना । अक᳚रम् ॥
यत् । व॒र्धय᳚न्तम् । प्र॒थय᳚न्तम् । आ॒नु॒षक् । दू॒रे । पा॒रे । रज᳚सः । रो॒च॒ना । अक᳚रम् ॥
सायणभाष्यम् (Sayana Commentary)
अहमिन्द्रः सोऽस्मि योऽहं नववास्त्वं बृहद्रथं च वृत्रेववृत्रमिव दासमुपक्शपयितारमिव नववास्त्वं बृहद्रथं चारुजम् । अहं भग्नमकरवम् । रुजो भङ्गे। यद्यदा वर्धयन्तं वर्धमानं प्रथयन्तं प्रथमानं चोभौ शत्रू अनुषगानुषक्तः सन्रोचना रोचनस्य रजसो लोकस्य दूरे पारेऽकरं कृतवानस्मि॥६॥