श्रवणम्

10.49.2
मां धु॒रिन्द्रं॒ नाम᳚ दे॒वता᳚ दि॒वश्च॒ ग्मश्चा॒पां च᳚ ज॒न्तवः᳚ ।
अ॒हं हरी॒ वृष᳚णा॒ विव्र᳚ता र॒घू अ॒हं वज्रं॒ शव᳚से धृ॒ष्ण्वा द᳚दे ॥
▶ पदपाठः (Word-by-word)
माम् । धुः॒ । इन्द्र᳚म् । नाम᳚ । दे॒वता᳚ । दि॒वः । च॒ । ग्मः । च॒ । अ॒पाम् । च॒ । ज॒न्तवः᳚ ।
अ॒हम् । हरी॒ इति᳚ । वृष᳚णा । वि॑व्र᳚ता । र॒घू इति᳚ । अ॒हम् । वज्र᳚म् । शव᳚से । धृ॒ष्णु । आ । द॒दे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रं नामन्द्रनामानं मा देवता देवानां मध्ये दिवो द्युलोकस्य। ग्मा पृथिव्यापोऽन्तरिक्षम् । एतेषु लोकेषु जन्तवो जाता मा मामेव धुः। दधुः। धारयन्ति। हविर्भिः स्तुभिश्च। अहं यज्ञगमनाय सङ्ग्रामगमनाय वा हरी हरितवर्णौ वृषणा पुंस्त्वोपेतौ विव्रता विविधकर्माणौ रघू लघू शीघ्रगती आश्वौ नियोजयामि रथे। तथाहं धृष्णु धर्षकं वज्रमायुधं शवसे बलायाददे। स्वीकरोमि॥२॥