श्रवणम्

10.49.7
अ॒हं सूर्य᳚स्य॒ परि᳚ याम्या॒शुभि॒ः प्रैत॒शेभि॒र्वह᳚मान॒ ओज᳚सा ।
यन्मा᳚ सा॒वो मनु᳚ष॒ आह᳚ नि॒र्णिज॒ ऋध᳚क्कृषे॒ दासं॒ कृत्व्यं॒ हथै᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । सूर्य᳚स्य । परि᳚ । या॒मि॒ । आ॒शु॑भिः᳚ । प्र । ए॒त॒शेभिः᳚ । वह᳚मानः । ओज᳚सा ।
यत् । मा॒ । सा॒वः । मनु᳚षः । आह᳚ । निः॒॑निजे᳚ । ऋध᳚क् । कृ॒षे॒ । दास᳚म् । कृत्व्य᳚म् । हथैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं सूर्यस्य देवस्याशुभिः शीघ्रगामिभिरेतशेभिरेतशवर्णैरश्वैर्वहमान उह्यमान ओजसात्मीयेन बलेन प्रकर्षेण परि यामि। परिगच्छामि सूर्यात्मना। किञ्च यद्यदा मा मां मनुषो मनुष्यस्य सावः सोमाभिषव आह ब्रूते। आह्वयतीत्यर्थः। किमर्थमाह। निर्णिजे। निर्णिगिति रूपनाम। यज्ञस्वरुपायेत्यर्थः। तदानीं कृत्व्यं कर्तव्यम् । हन्तव्यमित्यर्थः। दासमुपक्षपयितारं शत्रुं हथैर्हननसाधनैरृधक्कृषे। पृथक्करोमि। ऋधगित्यव्ययं पृघगर्थे॥७॥