श्रवणम्

10.49.11
ए॒वा दे॒वा{4} इन्द्रो᳚ विव्ये॒ नॄन्प्र च्यौ॒त्नेन᳚ म॒घवा᳚ स॒त्यरा᳚धाः ।
विश्वेत्ता ते᳚ हरिवः शचीवो॒॑भि तु॒रासः᳚ स्वयशो गृणन्ति ॥
▶ पदपाठः (Word-by-word)
ए॒व । दे॒वान् । इन्द्रः᳚ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन᳚ । म॒घ॑वा᳚ । स॒त्य॑रा᳚धाः ।
विश्वा᳚ । इत् । ता । ते॒ । ह॒रि॒॑वः॒ । श॒ची॒॑वः॒ । अ॒भि । तु॒रासः᳚ । स्व॒॑य॒शः॒ । गृ॒ण॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथानयेन्द्र इन्द्रभावं परित्यज्य ऋषिभावेनाह। एवैवमुक्तप्रकारेण देवान्नॄंश्चेन्द्रो देवः प्र विव्ये। प्रकर्षेण गमयति। तस्मात्पराचीः प्रजाः प्रवीयन्ते प्रतीचीर्जायन्ते। तै. सं. ६-३-१-४। इति ब्राह्मणम्। किमन्यसहायेन नेत्याह। च्यौत्नेन स्वीयेन बलेन। कीदृश इन्द्रः। मघवा धनवान् सत्यराधाः सत्यधनः। अथ प्रत्यक्षेणाह। हे हरिवो हरिभ्यां तद्व ञ्यचीवः कर्मवन् हे स्वयशः स्वायत्तकीर्तेऽन्नवन्वेन्द्र ता तानि विश्वा सर्वाणि कर्माणि ते तव सम्बन्धीनि येषु कर्मसु तुरासस्त्वरमाणा ऋत्विजोऽभि गृणन्ति अभिष्टुवन्ति॥११॥